श्री लक्ष्मी हयवदन रत्नमाला स्तोत्रम्

Share on facebook
Share on twitter
Share on telegram
Share on whatsapp

श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।

श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः ।

श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर

उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च

परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ।

वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः,

ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् ।

 

प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः,

त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ १॥

सत्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसं चा-,

ब्बिन्द्वोरुत्पाद्य ताभ्यामपहृतमखिलं वेदमादाय धात्रे ।

दत्त्वा द्राक्तौ च हत्वा वरगणमदिशद्वेधसे सत्र आदौ,

तन्त्रं चोपादिशद्यस्स मम हयशिरा मानसे सन्निधत्ताम् ॥ २॥

अध्यास्तेऽङ्कं परावाग् वरहयशिरसो भर्तुराचार्यके या,

वाञ्छावानैतरेयोपनिषदि चरमात्प्राक्तने खण्ड आदौ ।

यस्या वीणां च दैवीं मनसि विनिदधत्ख्यातिमेत्यन्त्यमन्त्रे,

सेशाना सर्ववाचो मम हृदयगता चारु मां वादयेद्वाक् ॥ ३॥

कृष्णं विप्रा यमेकं विदुरपि बहुधा वेदयो (रैतरेये) रादिमान्ते,

स्रष्टा विस्रंसमानस्स्वमथ समदधाच्छन्दसां येन दानात् ।

कृष्ण विष्णुं च जिष्णुं कलयितुरपि यत्संहितामायुरुक्तं,

वाक्श्लिष्टं प्राणमेनं हयमुखमनुसन्दध्महे किं वृथाऽन्यैः ॥ ४॥

प्रख्याता याऽऽश्वलायन्यधिकफलदशश्लोक्यभिख्या तदन्तः,

श्रुत्युक्ता वाक् सरस्वत्यपि हयमुख ते शक्तिरन्या न युक्ता ।

पूर्णा त्वच्छक्तिरर्धं भवति विधिवधूर्या नदी सा कलास्या,

इत्युक्ते ब्रह्मवैवर्त इह समुदिता स्यात्परा निम्नगाऽन्या ॥ ५॥

श्रीहर्षों विष्णुपत्नीं वदति कविरिमा नैषधे मल्लिनाथः,

ख्यातामेतां पुराणे हयमुख भुवि च स्थापितां विष्णुपार्श्वे ।

धीवाग्मित्वार्थजप्यं दिनमुखसमये शौनकस्सूक्तमत्याः,

श्रीयुक्तं बह्वृचस्स स्मृतिकृदपि तदा चिन्तनीयं तथैनाम् ॥ ६॥

 

वागाम्भृण्यादिसूक्ते निरवधिमहिमा या श्रुता वाक् च देवी,

पूर्वे सूक्तेऽपि हंसस्त्वमधिकमहिमा विश्रुतो बह्वृचैर्यः ।

युक्तावारण्यके तौ कथितबहुगुणौ सामनी संहितेत्य-,

प्याराध्यो व्यूहरूपी हयमुखविदितो ज्ञानिनां कर्मभिस्त्वम् ॥ ७॥

इन्द्रो वृत्रं हनिष्यन् सखिवर वितरं विक्रमस्वेति विष्णुं,

सम्प्रार्थ्यातो हतारिस्तत उपजनितब्रह्महत्त्यापनुत्त्यै ।

सूक्ताभ्यामाहुतिं यं प्रति परमजुहोन्मूर्ध्नि गन्धर्व एको,

देवानां नामधारी स मम दृढमतावद्य वाचस्पतिस्तात् ॥ ८॥

वेदे चाथर्वणाख्ये प्रथमत उदितं यत्त्रिषप्तीयसूक्तं,

तन्मेधाजन्मकर्माङ्गमिति निगदितं कौशिकेन स्वसूत्रे ।

मेधाकामः पुमान् यस्तुरगमुख ततस्सर्वलोकाधिनाथं,

ध्यायेद्वाचस्पतिं त्वां प्रभवति सकलस्तच्छृतार्थोऽप्रकम्प्यः ॥ ९॥

नासन्नो सत्तदानीमपि तु कमलयाऽवातमेकं तदानीत्,

तस्माद्धान्यत्परं किञ्चिदपि न तमसा गूढमग्रे प्रकेतम् ।

अद्धा को वेद हेतुं द्विविधमविगुणं वासुदेवाभिधानं,

व्यूहं त्वां प्रातरर्च्यं हयमुख भगमाहुः क्रमात्तैत्तिरीयाः ॥ १०॥

 

प्रातःपूज्यं भगाख्यं प्रथममकथयन् बह्वृचाः पञ्चमेऽथो,

नासत्सूक्तेऽष्टमे प्राग्वदपि समवदन् तैतिरीयक्रमात्त्वाम् ।

पाराशर्योऽवतीर्णं वदति हयमुखाथर्वणः कौशिकस्त्वाम्,

मेधार्थं प्रातरर्च्यं भगमनुमनुते संहिताऽप्याह साधु ॥ ११॥

प्रद्युम्नान्तं त्रिपाद्भास्वरवपुरमृतं वासुदेवादिबृन्दे,

पादस्तत्रानिरुद्धो भुवि तत उदभूदात्मभूऋग्विधिज्ञाः ।

हुत्वा त्वां यज्ञरूपं हयवदन जितन्ते स्तुतिं तन्वतेऽतः,

निर्णीतं सर्ववेदेष्वनुपममिति तत्पौरुष सूक्तमाप्तैः ॥ १२॥

सर्वे वेदाः प्रजाश्च प्रचुरबहुभिदाः संश्रयन्ते यमेकम् ,

शास्ता योऽन्तःप्रविष्टस्स्वयमपि दशधात्माचरत्यर्णवे यम् ।

ब्रह्मा चैकोन्वविन्दद्धरिमिह दशहोतारमन्तश्च चन्द्रे,

देवास्सन्तं सहैनं न हि विदुरवतात्सोऽद्य वाचस्पतिर्माम् ॥ १३॥

यस्माद्ब्रह्मा च रुद्रस्सकलजगदिदं जायतेऽन्तर्बहिर्यत्,

व्याप्त्या सत्तां च यस्मिन् लयमपि लभते यश्चतुर्वेदमूर्तिः ।

विष्णुर्नारायणोऽष्टाक्षरपदविदितो देवकीपुत्र एको,

योथार्वाङ्गे मधोः सूदन उपनिषदि ज्ञायते मे स इन्धाम् ॥ १४॥

शक्तिः स्वाभाविकी सात्र च विविधपरा श्रूयते ज्ञानमेवं,

त्रेधा तत्र क्रियेत्थं बलमपि तदसौ वासुदेवः स हंसः ।

यो ब्रह्माणं विधाय प्रथममथ परान् प्राहिणोत्सर्ववेदान्,

तस्मै देवं प्रपद्ये शरणमहमिमं चामृतस्यैष सेतुः ॥ १५॥

 

वम्र्यो विष्णोर्धनुर्ज्यां हयवदन वरान्नेच्छया चिच्छिदुस्तत् ,

कोट्या च्छिन्नं च विष्णोः शिर इति गदितं यत्प्रवर्ग्यार्थवादे ।

तच्छीर्षं याजमानं श्रुतिमुखत इदं स्थापित युक्तितोऽपि,

प्रादुर्भावः स गौणो बहुमुखहरिवंशादिनिर्धारितो वा ॥ १६॥

शुक्लं वेदं विवस्वानुपदिशसि परं याज्ञवल्क्याय वाजी,

वेदैकार्थैर्वचोभिर्मितमिदमखिलाम्नायधीकारिणीं याम् ।

वाग्देवीं मोक्षधर्मे कथयति मुनिराट् तत्कृपालब्धभूमा,

त्वच्छक्तिस्सेत्यकम्प्यं हयमुख गदितं ब्रह्मवैवर्तवाग्भिः ॥ १७॥

तस्माद्वेदेऽपि तत्रोपनिषदि बृहदारण्यके काण्ड आत्मा,

त्वं वाग्देव्या सहादौ जनयसि मिथुनीभूय सर्वांश्च वेदान् ।

धातारं तस्य पत्नीं तदनु तदुभयद्वारिकां व्यष्टिसृष्टिं,

तद्यज्ञाराधितोऽस्मै हयवदन वरान्यच्छसीति प्रतीमः ॥ १८॥

तुर्येऽध्याये द्वितीयं तुरगमुख शिशुब्राह्मण व्यूहरूपम्,

प्राण स्थूणां शिशुं त्वां चमसमपि शिरोऽर्वाग्बिलं चोर्ध्वबुध्नम् ।

सप्तानां देवतानामधिकरणममित्रेन्द्रियाणां जयार्थं,

वाचाष्टम्या युतं त्वां परिकलयति तद्ब्रह्म भक्तार्तिहारि ॥ १९॥

दध्यङ्ङाथर्वणोश्वित्रिदशकृतशिरोधारणादश्वमूर्ध्ना,

ताभ्यां प्रावर्ग्यतत्त्वं हयमुख समुपादिक्षदेतद्यथार्थम् ।

एतावत्येव तत्त्वे कलिबलवशतस्तामसाश्शक्त्यधीनं,

भावत्कं शीर्षमाहुर्भुवि जनिसमये त्वत्कटाक्षातिदूराः ॥ २०॥

 

दध्यङ्ङाथर्वणो यो हयमुख बृहदारण्यके काण्ड आदौ,

आह प्रावर्ग्यतत्त्वं यदपि शतपथे दीक्षणीयार्थवादे ।

विष्ण्वाख्यं तत्त्वमुक्तं पुनरुपनिषदि ब्रह्म वागीशरूपं,

यच्च प्रोक्तं तृतीये तदपि च स मधुब्राह्मणे वक्ति तुर्ये ॥ २१॥

वाचा देव्यानिरुद्धेन च सृजति जगत्सर्वमित्यग्र उक्तो,

वाहास्यो वासुदेवः स पर इति मधुब्राह्मणं स्थापयित्वा ।

दध्यङ्ङाथर्वणोश्वित्रिदशहितमधुत्वाष्ट्रकक्ष्योपदेष्टा,

तत्त्वं जानाति चेत्यप्यखिलशुभतनुं वक्ति वागीश्वरं त्वाम् ॥ २२॥

दध्यङ्ङाथर्वणोऽसावुपदिशति मधुब्राह्मणं त्वाष्ट्रकक्ष्यं,

यत्तन्नारायणाख्यं कवचमिति समाधुष्यते सात्विकाग्र्यैः ।

वृत्रस्येदं वधायालमिति हयमुख ब्रह्मविद्येति तत्त्वं,

वागीशैते न जानन्त्यनघ तव कृपाबाह्यतां ये प्रयाताः ॥ २३॥

तत्त्वं नारायणाख्योपनिषदि कथितं पञ्चरात्रोक्तरीत्या,

तन्नामाख्यान आहाश्वमुख विशदमाद्यं च धर्मं मुनीन्द्रः ।

गीतायां सङ्गृहीतं विशदयितुमनाः कृष्ण वाहाननैक्यं,

ब्रूते वेदोदितत्वं स्थिरयति च तदत्रोक्त एकान्तिधर्मे ॥ २४॥

आदौ नारायणं तं वदति मधुजितं देवकीपुत्रमन्ते,

वेदान्तो मोक्षधर्मे वरहयशिरसं प्राह कृष्णस्स्वमेव ।

इत्यालोच्यैव योगी कलिजिदभिजगौ तत्क्रमात् स्तौति मध्ये,

वाहास्य त्वां शठारिर्मुनिरपि मनुतेऽश्वं पुरः कृष्णमन्ते ॥ २५॥

 

जन्मादीनां निदानं कतिचिदकथयन् देवमेकं तथाऽन्ये,

देवीमेकां विदुस्तन्मिथुनमविकलं ब्रह्म वेदान्तवेद्यम् ।

इत्येवं स्थापयित्वा चिदचिदवियुतं श्रीमदेकं तदित्य-,

प्याचख्यौ मोक्षधर्मे हयमुखजनिवृत्तापदेशान्मुनीन्द्रः ॥ २६॥

श्रावण्यां तेऽवतारे हयमुख निगमोद्धारणार्थत्वबुद्धेः,

ऋग्वेदोपक्रमस्तच्छ्रवणभ इति निश्चिन्वते बह्वृचाग्र्याः ।

प्रारम्भो पौर्णमास्यां यजुष इति परे याजुषाः सङ्गिरन्ते,

तद्वेदोपक्रमान्ते भुवि विधिवशगास्त्वां समाराधयन्ति ॥ २७॥

विष्णोः पत्नी परा वागिति बहुमनुते भारती यां यदींशः,

पत्युः प्राक्पञ्चरात्रं श्रुतिमपि समुपादिक्षदित्यादरेण ।

तद्वागाश्लिष्टमूर्तिं हयशिरस उपाराधयन्ती निशम्य,

श्रीभाष्यं लक्ष्मणाय स्वपतिविदित यत्याकृतिं बिभ्रतेऽदात् ॥ २८॥

वागीशानस्य मन्त्रं श्रुतिशिखरगुरुस्तार्क्ष्यलक्षं जपित्वा,

प्राप्तं तत्काललालामृतमपिबदहीन्द्राख्यपुर्यां यतीन्दोः ।

मातुर्भ्रातुस्तनूजोत्तमगुणकुरुकाधीशवंश्यार्चितां त-,

न्मूर्ति सम्प्राप्य काञ्चयां स्वयमपि चिरमाराधयद्भक्तिभूम्ना ॥ २९॥

काले वेदान्तसूरिस्स्वपदमुपगतं ब्रह्मतन्त्रस्वतन्त्रं,

शिष्याग्र्यं मूर्तिमेनां समनयदथ तच्छात्रपारम्परीतः ।

सेयं वागीशमूर्तिर्गुरुवरपरकालादिभिः सेव्यमाना,

रम्यास्थान्यां त्रिकालं विलसति विहितार्चाद्य कर्णाटदेशे ॥ ३०॥

 

धर्मं पूर्वाश्रमोक्तं सुकरमपि न कृत्वाऽन्तिमोक्तस्य तस्या-,

नुष्ठानेऽशक्तिभीतं यमुखकृपणं लम्भयित्वाऽऽश्रमं तम् ।

शोभोद्रेकादिनाऽर्चाविशय उपगते लक्ष(कोटि)पूजां तुलस्या,

स्वोपाख्या व्याकृतिं चाकलयसि कियती मय्यनर्घा दया ते ॥ ३१॥

इत्थं वागीशपादूयुगलसततसंसेवनार्चादिदीक्षः,

तत्रैतां नव्यरङ्गेश्वरयतिरनघामार्पयद्रत्नमालाम् ।

एनां नित्यं पठन्तो भुवि मनुजवरा भक्तिभूनेप्सितार्थान्,

सर्वान् विन्दन्ति वाहाननवरकरुणापाङ्गधाराभिषेकात् ॥ ३२॥

इति श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रं समाप्तम् ।

Comments & Feedbacks

Sharing Is Karma

Share on facebook
Share
Share on twitter
Tweet
Share on linkedin
LinkedIn
Share on telegram
Telegram
Share on whatsapp
WhatsApp

More Strotra's