Stotra

Share on facebook
Share on twitter
Share on telegram
Share on whatsapp

श्री गणेश प्रातः स्मरणम् स्तोत्र

प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् । तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं पुत्रं

Read  ➜

माँ बगलामुखी पञ्जर न्यास स्तोत्र

बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी। पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।। जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्। वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी

Read  ➜

वेदसारशिवस्तोत्रम्

पशूनांपतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्॥ १ ॥ महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् । विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्

Read  ➜

श्री कार्तिकेय स्तोत्र

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्।

Read  ➜

श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्

हे स्वामिनाथ! करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म, वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥ देवाधिदेवसुत देवगणाधिनाथ, देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥ नित्यान्नदाननिरताखिलरोगहारिन्,

Read  ➜

श्री वेंकटेश द्वादश नाम स्तोत्रम्

वेङ्कटेशो वासुदेवः वारिजासनवन्दितः । स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥ पीतांबरधरो देवः गरुडारूढशोभितः, विश्वात्मा विश्वलोकेशः विजयो वेङ्कटेश्वरः ॥ २ ॥ एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः

Read  ➜

गंगा दशहरा स्तोत्र

ॐ नमः शिवायै गंगायै, शिवदायै नमो नमः। नमस्ते विष्णु-रुपिण्यै, ब्रह्म-मूर्त्यै नमोऽस्तु ते।।1।। नमस्ते रुद्र-रुपिण्यै, शांकर्यै ते नमो नमः। सर्व-देव-स्वरुपिण्यै, नमो भेषज-मूर्त्तये।।2।।   सर्वस्य सर्व-व्याधीनां, भिषक्-श्रेष्ठ्यै

Read  ➜

गजेन्द्र मोक्ष स्तोत्र

श्रीशुक उवाच ” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥ गजेन्द्र उवाच ” ॐ नमो भगवते तस्मै

Read  ➜

श्री वेंकटेश्वर स्तोत्र

कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो। कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥ सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे। शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥ अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः। भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे

Read  ➜

श्री सन्तानगोपाल स्तोत्र

श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥१॥ नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥२॥ अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् ।

Read  ➜

लांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र

हनुमन्नञ्जनीसूनो महाबलपराक्रम। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।1।। मर्कटाधिप मार्तण्ड मण्डल-ग्रास-कारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।2।। अक्षक्षपणपिङ्गाक्षक्षितिजाशुग्क्षयङ्र। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।३।। रुद्रावतार संसार-दुःख-भारापहारक। लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।4।। श्रीराम-चरणाम्भोज-मधुपायितमानस।

Read  ➜

अथ श्री कनकधारा स्तोत्रम्

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्। अङ्गीकृताऽखिल-विभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपा-प्रणहितानि गताऽऽगतानि। मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः

Read  ➜

श्री राधा कृष्ण स्तोत्र

वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥ राधानुगं राधिकेष्टं राधापहृतमानसम्

Read  ➜

शिव षडक्षर स्तोत्र

ओंकारसंज्ञाय समस्तवेद-पुराणपुण्यागमपूजिताय। ओंकाररूप प्रियदर्शनाय ओंकाररूपाय नमः शिवाय॥१॥ नाना जराव्याधि विनाशनाय नाथाय लोकस्य जगद्धिताय । नाना कलाज्ञान निदर्शनाय तस्मै नकाराय नमः शिवाय ॥२॥ मात्सर्यदोषान्तक संभवाय मातुः

Read  ➜

श्री दधि वामन स्तोत्रम्

हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् । पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥ पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम्। ज्वलत्कालानलप्रख्यं तडित्कॊटिसमप्रभम् ॥२॥ सुर्यकॊटिप्रतीकाशं चन्द्रकोटिसुशीतलम्। चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥ श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम्। पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥४॥

Read  ➜

विप्रपत्नी कृत श्री कृष्ण स्तोत्र

त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः

Read  ➜

श्री प्रज्ञा विवर्धन कार्तिकेय स्तोत्र

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः। स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥१॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः। तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥२॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः। सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥३॥ शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत्।

Read  ➜

श्री अष्टलक्ष्मी स्तोत्र

आदिलक्ष्मी ॥ सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये मुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते । पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि शान्तियुते जय जयहे मधुसूदन

Read  ➜

श्री सिद्ध लक्ष्मी स्तोत्र

ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्। त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।। पीताम्बरधरां देवीं, नानाऽलंकारभूषिताम्। तेजःपुञ्जधरीं श्रेष्ठां, ध्यायेद् बाल–कुमारिकाम्।। मूल स्तोत्रम् ॐकारं लक्ष्मी रुपं तु, विष्णुं हृदयमव्ययं। विष्णुमानन्दमव्यक्तं,

Read  ➜

श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम्

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं, वेदरूपमनामयं विभुमच्युतं परमेश्वरम् । हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,

Read  ➜

शिव पञ्चाक्षर नक्षत्र माला स्तोत्रम्

श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भावसिन्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥१॥ कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय । मूलकारणाय कालकाल

Read  ➜
Get important alerts about new content! We don't send spam notifications.
Dismiss
Allow Notifications