Verses · Significance · Commentary · Recite
॥
Shri Radha Krishna Stotram
by Gandharva
stuti·vaishnava
📡0
48.1K
🪔4.7K
10 verses available
VERSE 1
वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 2
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 3
राधानुगं राधिकेष्टं राधापहृतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 4
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् । राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ४ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 5
ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् । तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 6
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ६ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 7
यः सृष्टेरादिभूतं च सर्वबीजं परात्परम् । योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 8
बीजं नानावताराणां सर्वकारणकारणम् । वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ८ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 9
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् । गन्धर्वेण कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः । इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ ९ ॥
Machine-assisted English interpretation · human review pending
—
VERSE 10
हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम् । पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १० ॥