Sri Shiva Sahasranama stotram (Uttara Peetika)
यथा प्रधानं भगवानिति भक्त्या स्तुतो मया । यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ १ ॥
yathā pradhānaṁ bhagavāniti bhaktyā stutō mayā
—
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् । भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ २ ॥
yaṁ na brahmādayō dēvā vidustattvēna narṣayaḥ
—
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः । शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ ३ ॥
stōtavyamarcyaṁ vandyaṁ ca kaḥ stōṣyati jagatpatim
—
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना । एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ ४ ॥
bhaktyā tvēvaṁ puraskr̥tya mayā yajñapatirvibhuḥ
—
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् । स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ ५ ॥
tatō:'bhyanujñāṁ samprāpya stutō matimatāṁ varaḥ
—
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः । तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ॥ ६ ॥
śivamēbhiḥ stuvan dēvaṁ nāmabhiḥ puṣṭivardhanaiḥ
—
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः । भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ ७ ॥
nityayuktaḥ śucirbhaktaḥ prāpnōtyātmānamātmanā
—
कर्मणा मनसा वाचा भावेनामिततेजसः । शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥ ८ ॥
ētaddhi paramaṁ brahma paraṁ brahmādhigacchati
—
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः । शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ ९ ॥
r̥ṣayaścaiva dēvāśca stuvantyētēna tatparam
—
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च । जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १० ॥
stūyamānō mahādēvastuṣyatē niyatātmabhiḥ
—
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ ११ ॥
bhaktānukampī bhagavānātmasaṁsthākarō vibhuḥ
—
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा । एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ १२ ॥
tathaiva ca manuṣyēṣu yē manuṣyāḥ pradhānataḥ
—
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी । तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १३ ॥
āstikāḥ śraddadhānāśca bahubhirjanmabhiḥ stavaiḥ
—
येन यान्ति परां सिद्धिं तद्भावगतचेतसः । ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥ १४ ॥
bhaktyā hyananyamīśānaṁ paraṁ dēvaṁ sanātanam
—
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् । एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् ॥ १५ ॥
karmaṇā manasā vācā bhāvēnāmitatējasaḥ
—
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् । इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६ ॥
śayānā jāgramāṇāśca vrajannupaviśaṁstathā
—
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना । स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥ १७ ॥
unmiṣannimiṣaṁścaiva cintayantaḥ punaḥ punaḥ
—
गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ । इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १८ ॥
śr̥ṇvantaḥ śrāvayantaśca kathayantaśca tē bhavam
—
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा । एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १९ ॥
stuvantaḥ stūyamānāśca tuṣyanti ca ramanti ca
—
या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा । स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥ २० ॥
janmakōṭisahasrēṣu nānāsaṁsārayōniṣu
—
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् । एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥ २१ ॥
jantōrvigatapāpasya bhavē bhaktiḥ prajāyatē
—
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे । मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ॥ २२ ॥
utpannā ca bhavē bhaktirananyā sarvabhāvataḥ
—
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि । तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ॥ २३ ॥
bhāvinaḥ kāraṇē cāsya sarvayuktasya sarvathā
—
वैवस्वताय मनवे गौतमः प्राह माधव । नारायणाय साध्याय समाधिष्ठाय धीमते ॥ २४ ॥
ētaddēvēṣu duṣprāpaṁ manuṣyēṣu na labhyatē
—
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः । नाचिकेताय भगवानाह वैवस्वतो यमः ॥ २५ ॥
nirvighnā niścalā rudrē bhaktiravyabhicāriṇī
—
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत । मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥ २६ ॥
tasyaiva ca prasādēna bhaktirutpadyatē nr̥ṇām
—
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् । स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ २७ ॥
yēna yānti parāṁ siddhiṁ tadbhāvagatacētasaḥ
—
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ २८ ॥
yē sarvabhāvānugatāḥ prapadyantē mahēśvaram
—
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः । [भूत्वा]
prapannavatsalō dēvaḥ saṁsārāttānsamuddharēt
—
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ २९ ॥
ēvamanyē vikurvanti dēvāḥ saṁsāramōcanam
—
इति श्रीमहाभारते अनुशासनपर्वणि महादेवसहस्रनाम स्तोत्रं नाम सप्तदशोऽध्यायः ॥
manuṣyāṇāmr̥tē dēvaṁ nānyā śaktistapōbalam
—