Shri Ganesh Dwadash naam Stotram

श्रीगणेशाय नमः ॥

शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ १॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २॥

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ ३॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकतो विघ्ननाशो विनायकः ॥ ४॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ॥ ५॥

विद्यार्थी लभते विद्यां धनार्थि विपुलं धनम् ।
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ ६॥

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ७॥

। इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ।

———-

More Stotra’s on Shree Ganesh

गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं

भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम्

श्री गणेश प्रातः स्मरणम् स्तोत्र

श्री महागणेश पंचरत्न स्तोत्र

श्री विष्णु कृतं गणेश स्तोत्र

श्री संकटनाशन गणेश स्तोत्र

श्री प्रहलाद कृत गणेश स्तोत्र

Comments & Feedbacks

Sharing Is Karma

Share
Tweet
LinkedIn
Telegram
WhatsApp

Join Brahma

Learn Sanatan the way it is!