...
Background

Shakti Mahimna ( Tripura Mahima ) Stotram

0
0

Change Bhasha

मातस्ते महिमा वक्तुं शिवेनापि न शक्यते । भक्त्याहं स्तोतुमिच्छामि प्रसीद मम सर्वदा ॥ १॥

श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा- सौन्दर्यार्णव-मन्थनोद्भवसुधा-प्राचुर्य-वर्णोज्ज्वलम् । उद्यद्भानुसहस्रनूतनजपापुष्पप्रभं ते वपुः स्वान्ते मे स्फुरतु त्रिकोणनिलयं ज्योतिर्मयं वाङ्मयम् ॥ २॥

आदिक्षान्त समस्त-वर्ण-सुमणि-प्रोते वितानप्रभे ब्रह्मादि-प्रतिमाभिकीलित-षडाधाराब्ज-कक्षोन्नते । ब्रह्माण्डाब्ज महासने जननि ते मूर्तिं भजे चिन्मयीं सौषुम्नायत-पीतपङ्कज-महामध्य-त्रिकोणस्थिताम् ॥ ३॥

या बालेन्दु दिवाकराक्षिमधुरा या रक्तपद्मासना रत्नाकल्प-विराजिताङ्ग-लतिका पूर्णेन्दुवक्त्रोज्ज्वला । आक्षस्त्रक्सृणि-पाश-पुस्तक-करा या बालभानुप्रभा तां देवीं त्रिपुरां शिवं हृदि भजेऽभीष्टार्थ सिद्धयै सदा ॥ ४॥

वन्दे वाग्भवमैन्दवात्म-सदृशं वेदादि-विद्या-गिरो भाशा देशसमुद्भवाः पशुगताश्छन्दांसि सप्तस्वरान् । तालान् पञ्चमहाध्वनीन् प्रकटयत्यात्मप्रकाशेन यत् तद्बीजं पदवाक्य-मान-जनकं श्रीमातृके ते परम् ॥ ५॥

त्रैलोक्यस्फुट-मन्त्र-तन्त्र-महिमा स्वात्मोक्ति-रूपं विना यद्बीजं व्यवहारजालमखिलं नास्त्येव मातस्तव । तज्जाप्य-स्मरण-प्रसक्त-सुमतिः सर्वज्ञतां प्राप्य कः शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिः स्पर्धते ॥ ६॥

मात्रा याऽत्र विराजतेऽतिविशदा तामष्टधा मातृकां शक्तिं कुण्डलिनीं चतुर्विधतनुं यस्तत्त्वविन्मन्यते । सोऽविद्याखिलजन्म-कर्म-दुरितारण्यं प्रबोधाग्निना भस्मीकृत्य विकल्पजाल-रहितो मातः पदं तीद्व्रजेत् ॥ ७॥

तत्ते मध्यम-बीजमम्ब कलयाम्यदित्यवर्णं क्रिया- ज्ञानेच्छादिमनन्तशक्ति-विभव-व्यक्तिं व्यनक्ति स्फुटम् । उत्पति-स्थिति-कल्प-कल्पित-तनु स्वात्मप्रभावेन यत् काम्यं ब्रह्महरीश्वरादि-विबुधैः कामं क्रियायोजितैः ॥ ८॥

कामान् कारणतां गतान् अगणितान् कार्यै-रनन्तै-र्मही- मुख्यैः सर्वमनोगतै-रधिगतान् मानैरनेकैः स्फुट्म् । कामक्रोध-सलोभमोह-मदमातसर्यारि-षट्कं च यत् बीजं भ्राजयति प्रणौमि तदहं ते साधु कामेश्वरि ॥ ९॥

यद्भक्ताखिल-काम-पूरणचण-स्वात्मप्रभावं महा- जाड्यध्वान्त-विदारणैक-तरणिज्योतिः प्रबोधप्रदम् । यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति श्रीविद्ये तव सर्वराज-वशकृत् तत्कामराजं भजे ॥ १०॥

यत्ते देवि तृतीयबीज-मनलज्वालावली-सन्निभं सर्वाधार-तुरीयबीज-मपरब्रह्माभिधा-शब्दितम् । मूर्धन्यान्त-विसर्ग-भूषितमहौकारात्मकं तत्परं सर्विद्रूपमनन्य-तुल्य महिम स्वान्ते मम द्योतताम् ॥ ११॥

सर्व सर्वत एव सर्गसमये कार्येन्द्रियाण्यन्तरा तत्तद्दिव्य-हृषीक-कर्मभिरियं संव्यश्रुवाना परा । वागर्थ-व्यवहार-कारणतनुः शक्ति-र्जगद्रूपिणी यद्बीजात्मकतां गता तव शिवे तन्नौमि बीजं परम् ॥ १२॥

अग्नीन्दु-द्युमणि-प्रभञ्जन-धरा-नीरान्तर-स्थायिनी शक्तिर्ब्रह्महरीश-वासव-मुखामर्त्यासुरात्म-स्थिता । सृष्टस्थावरजङ्गम-स्थित-महा-चैतन्यरूपा च या यद्बीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके ॥ १३॥

स्वात्म श्रीविजिताजविष्णु मघव श्रीपूरणैकव्रतं सद्विद्या-कविता-विलासलहरी-कल्लोलिनी-दीपकम् । बीजं यत् त्रिगुणप्रवृति-जनकं ब्रह्मेति यद्योगिनः शान्ताः सत्यमुपासते तदिह ते चित्ते दधे श्रीपरे ॥ १४॥

एकैकं तव मातृके परतरं संयोगि वाऽयोगि वा विद्यादिप्रकट-प्रभव-जनकं जाड्यान्ध्कारापहाम् । यन्निष्ठाश्च महोत्पलासन-महाविष्णु-प्रहन्नार्दयो देवाः स्वेषु विधिष्वनन्त-महिम-स्फूर्तिं दधत्येव तत् ॥ १५॥

इत्थं त्रीण्यपि मूल-वाग्भव-महा-श्रीकामराज स्फुर- च्छक्त्त्याख्यानि चतुः- श्रुतिप्रकटितान्युत्कृष्ट-कूटानि ते । भूतर्तु श्रुति संख्य-वर्ण-विदितान्यारक्तकान्ते शिवे यो जानाति स एव सर्वजगतां-स्थिति-ध्वंसकृत् ॥ १६॥

ब्रह्मा योनि-रमा-सुरेश्वर-सुहृल्ल्रेखभिरुक्त्तैस्तथा मार्ताण्डेन्दु-मनोज-हंस-वसुधा-मायाभिरुत्तसितैः । सोमाम्भु-क्षिति-शक्तिभिः प्रकटितै-र्बाणाङ्गवेदैः क्रमाद् वर्णैः श्रीशिवदेशिकेन विदितां विद्यां तवाम्बाश्रये ॥ १७॥

नित्यं यस्तव मातृकाक्षर सखीं सौभाग्यविद्यां जपेत् सम्पूज्याखिल चक्रराजनिलयां सायन्तनाग्नि प्रभाम् । कामाख्यं शिवनामतत्त्वमुभयं व्याप्यात्म्ना सर्वतो दीव्यान्ती-मिह तस्य सिद्धि-रचिरात् स्यात् त्वत्स्वरूपैकता ॥ १८॥

काव्यैर्वा पठितैः किमल्पविदुषां जोघुष्यमाणैः पुनः किं तै-र्व्याकरणैर्विवोबुधिषया किं वाभिधानश्रिया । एतैरम्ब न बोभवीति सुकवि-स्तावत्तव श्रीमतोः यावन्नानुसरीसरीति सरणिं पादाब्जयोः पावनीम् ॥ १९॥

गेहं नाकति गर्वितः प्रवणति स्त्रीसङ्गमो मोक्षति द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पाद-संसेवनात् त्वां वन्दे भवभीति-भञ्जनकरीं गौरीं गिरीशप्रियाम् ॥ २०॥

आद्यैरग्नि रवीन्दु बिम्ब निलये रम्ब त्रिलिङ्गात्मभिः- मिश्रा रक्त सित प्रभैरनुपमैर्युष्मत्पदै स्तै स्त्रिभिः । स्वात्मोत्पादित काल लोक निगमावस्थामरादि त्रयैः उद्भूतं त्रिपुरेति नाम कलयेद्यस्ते स धन्यो बुधः ॥ २१॥

आद्यो जाप्यतमर्थ वाचकतया रूढः स्वरः पञ्चमः सर्वोत्कृष्टतमार्थ वाचकतया वर्णः पवर्गान्तकः । वक्तृत्वेन महाविभूतिसरणिस्त्वाधारगो हृद्गतो भ्रूमध्ये स्थित इत्यतः प्रणवता ते गीयतेऽम्बागमैः ॥ २२॥

गायत्री सशिरास्तुरीय सहिता सन्ध्यामयीत्यागमैः आख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् । तत्तद्दर्शन मुख्यशक्तिरपि च त्वं ब्रह्मकर्मेश्वरी कर्ताऽर्हन् पुरुषो हरिश्च सविता बुद्धः शिवस्त्वं गुरु ॥ २३॥

अन्न-प्राण-मन-प्रबोध-परमानन्दैः शिरः-पक्षयुक् पुच्छात्म-प्रकटै-र्महोपनिषदां वाग्मिः प्रसिद्धिकृतै । कोशैः पञ्चभिरेभि-रम्ब भवतीमेतत् प्रलीनामिति ज्योतिः प्रज्वल-दुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ २४॥

सच्चित्तत्वमसीति वाक्यविदितै-रध्यात्मविद्या-शिव- ब्रह्माख्यै-रतुल-प्रभाव-महितै-स्तत्त्वैस्त्रिभिः सद्गुरोः । त्वद्रूपस्य मुखारविन्द-विवरात् सम्प्राप्य दिक्षा-मतो यस्त्वां विन्दति तत्त्वत-स्तदह-मित्यार्ये स मुक्तो भवेत् ॥ २५॥

सिद्धान्तैर्बहुभि प्रमाण-गदितैरन्यैरविद्यातमो नक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते । यावत्ते सवितेव सम्मतमिदं नोदेति विश्वान्तरे जन्तो-र्जन्म-विमोचनैकभिदुरं श्रीशाम्भवं श्रीशिवे ॥ २६॥

आत्माऽसौ सकलेन्द्रियास्रय-मनो बुधयादिभिः शोचितः कर्माबधतनुर् जनिं च मरणं प्रैतीति यत्कारणम् । तते देवि महाविलस लहरि दिव्ययुधानां जयः तस्मात् सद्गुरुमप्युपेत्य कलयेत्वामेव चेन्मुच्यते ॥ २७॥

नाना-योनि-सहस्र-सम्भव-वशाज्जाता जनन्यः कति प्रख्याता जनकाः कियन्त इति मे सेत्स्यन्ति चाग्रे कति । एतेषां गणनैव नास्ति महतः संसारसिन्धो-र्विधेः भीतं मां नितरा-मनन्यशरणं रक्षानुकम्पानिधे ॥ २८॥

देहक्षोभ-करै-र्वृतै-र्बहुविधै-दानैस्च-होमै-र्जपैः सन्तानै-र्हयमेध-मुख्य-सुमखै-र्नानाविधैः कर्मभिः । यत्सङ्कल्पविकल्पजाल-मलिनं प्राप्यं पदं तस्यते दूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ २९॥

पञ्चाशन्निजदेहजाक्षरमयैर्नानाविधैर्धातुभिः बह्वर्थैः पदवाक्य-मान-जनकै-रर्थाविनाभावितैः । साभिप्रायवदर्थ-कर्म-फलदैः ख्यातेरनन्तैरिदं विश्वं व्याप्य चिदात्मनाऽहमहमित्युज्जृम्भसे मातृके ॥ ३०॥

श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकं विख्यातं तदधिष्ठिताक्षर-शिवज्योतिर्मयं सर्वतः । एतन्मन्त्रमयात्मिकभिररुणं श्रीसुन्दरीभिर्वृतं मध्ये बैन्दवसिंहपीठललिते त्वं ब्रह्मविद्या शिवे ॥ ३१॥

बिन्दु-प्राण-विसर्ग-जीवसहितं बिन्दु-त्रिबिजात्मकं षट्कूटानि विपर्ययेण निगदेत् तारत्रिबालाक्षरैः । एभिः सम्पुटितं प्रजप्य विहरेत्प्रासाद-मन्त्रं परं गुह्यद्गुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ॥ ३२॥

आताम्रार्क सहस्रदीप्ति परमा सौन्दर्यसारै-रलं लोकातीत महोदयै रुपयुता सर्वोपमाऽगोचरैः । नानानर्घ्य-विभूषणैरगणितै-र्जाज्वल्यमानाऽभितः त्वं मातास्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ ३३॥

शिञ्जन्नूपुर-पादकङ्कण-महामुद्रासुलाक्षारसा- लङ्कारन्कित-पादपङ्कज-युगं श्रीपादुकालङ्कृतम् । उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निभं ब्रह्मादि त्रिदशासुरार्चितमहं मूर्ध्नि स्मराम्यम्बिके ॥ ३४॥

आरक्तच्छविनाऽतिमार्दवयुजा निश्वासहार्येण यत् कौशेयेन विचित्ररत्नधतितैर्मुक्ताफलैरुज्ज्वलैः । कूजत्काञ्चन-किङ्किणीभिरभित सन्नद्धकाञ्चीगुणैः आदीप्तं सुनितम्बबिम्बमरुणं ते पूजयाम्यम्बिके ॥ ३५॥

कस्तूरी-घनसार-कुङ्कुमरजो-गन्धोत्कटै-श्चन्दनैः आलिप्तं मणिमालयाऽतिरुचिरं ग्रैवेय-हारादिभिः । दीप्तं दिव्य-विभूषणै-र्जननि ते ज्योति-र्विभास्वत्कुच व्याज-स्वर्णधटद्वयं हरिहर-ब्रह्मादि-पीतं भजे ॥ ३६॥

मुक्तारत्नसुवर्णकान्तिकलितैस्ते बाहुवल्लीरहं केयूरोत्तम बाहुदण्डवलयैर्हस्ताङ्गुलीभूषणैः । सम्पृक्त्ताः कलयामि हीरमणिमन्मुक्ताफलाकीलित- ग्रीवापट्टविभूषणेन सुभगे कण्ठं च कम्बुश्रियम् ॥ ३७॥

तप्तस्वर्ण-कृतोरुकुण्डलयुगं माणिक्य-मुक्तोल्लस- द्धिराबद्ध-मनन्य-तुल्य-मपरं हैमं च चक्रद्वयम् । शुक्राकार-निकार-दक्ष-मपरं मुक्ताफलं सुन्दरं बिभ्रत्कणयुगं नमामि ललितं नासाग्रभागं शिवे ॥ ३८॥

उद्युत्पूर्ण कलानिधिश्रि वदनं भक्तप्रसन्नं सदा सम्फुल्लाम्बुज-पत्र-चित्र-सुषमा-धिक्कार दक्षेक्षणम् । सानन्दं कृतमन्दहासमसकृत् प्रादुर्भवत्कौतुकं कुन्दाकार सुदन्तपङ्क्ति शशिभा पूर्णं स्मराम्यम्बिके ॥ ३९॥

श‍ृङ्गारादि-रसालयं त्रिभुवनि-माल्यै-रतुल्यै-र्युतं सर्वाङ्गीण सदङ्गराग-सुरभि-श्रीमद्वपु-र्दीपितम् । ताम्बूलालरुण पल्लवाधर-युतं रम्यं त्रिपुण्ड्रं दध- द्भालं नन्दनचन्दनेन जननि ध्यायामि ते मङ्गलम् ॥ ४०॥

जाति-चम्पक-कुन्दकेसर-महागन्धोद्निरत् केतकी नीपशोक-शिरीष-मुख्य-कुसुमैः प्रोत्तंसित धूपिता । आनिलाञ्जन-तुल्य-मत्त-मधुप-श्रेणीव वेणी तव श्रीमातः श्रयतां मदिय हृदयाम्भोजां सरोजलये ॥ ४१॥

लेखालभ्य-विचित्र-रत्न-घटितं हैमं किरीटोत्तमं मुक्ता-काञ्चन-किङ्किणी-गण-महा-हीर-प्रबद्धोज्ज्वलम् । चञ्चश्चन्द्रकला-कलाप-महितं-देवद्रुपुष्पाचितैः माल्यै-रम्ब विलम्बितं सशिखरं बिभ्रच्छिरस्ते भजे ॥ ४२॥

उत्क्षिप्तोच्चसुवर्ण-दण्ड-कलितं-पूर्णेन्दु-बिम्बाकृति च्छत्रं मौक्तिक-चित्ररत्नखचितं क्षौमांशुकोत्तंसितम् । मुक्तजाल-विलम्बितं-सकलशं नानाप्रसूनार्चितं चन्द्रोङ्डामर-चामराणि दधते श्रीदेवि ते स्वः स्त्रियः ॥ ४३॥

विद्या-मन्त्र-रहस्यविन्मुनिगणैः क्लृप्तोपचारार्चनां वेदादि-स्तुति-गीयमान-चरितां वेदान्त-तत्त्वात्मिकाम् । सर्वास्ताः खलु तुर्यता-मुपगता-स्त्वद्रश्मिदेव्यः पराः त्वां नित्यं समुपासते स्वविभवैः श्रीचक्रनाथे शिवे ॥ ४४॥

एवं य स्मरति प्रबुद्धसुमतिः श्रीमत्स्वरूपं परं वृद्धोऽप्याशु युवा भवत्यनुपमः स्त्रीणामनङ्गायते । सोऽष्टैश्वर्य-तिरस्कृतखिला-सुरश्री-जृम्भणैकालयः पृथ्वीपालकिरीट-कोटिवलभि-पुष्पार्चिताङ्घ्रि-र्भवेत्त् ॥ ४५॥

अथ तव धनुः पुण्ड्रेक्षुत्वात् प्रसिदध्मतिद्युति त्रिभुवनवधू मुद्यज्ज्योत्स्नाकलानिधि-मण्डलम् । सकल जननि स्मारं स्मारं गतः स्मरतां नरः त्रिभुवनवधू-मोहाम्बोधेः प्रपूर्णविधु-र्भवेत् ॥ ४६॥

प्रसून शर पञ्चक प्रकट जृम्भणागुम्भितं त्रिलोकमवलोकय त्यमलचेतसाऽचञ्चलम् । अशेष तरुणीजन स्मरविजृम्भणे यः सदा पटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ ४७॥

पाशं प्रपूरित-महा-सुमति-प्रकाशो यो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् । आकर्षणेऽखिलवशीकरणे प्रवीणं चित्ते दधाति स जगत्त्रय-वश्यकृत् स्यात् ॥ ४८॥

यः स्वान्ते कलयति कोविद-स्त्रिलोकी- स्तम्भारम्भणचण-मत्युदारवीर्यम् । मातस्ते विजय-निजाङ्कुशं स योषाः देवान्स्तम्भयति च भूभुजोऽन्यसैन्यम् ॥ ४९॥

चाप ध्यान वशाद्भवोद्भव महामोहं महाजृम्भणं प्रख्यातं प्रसवेषुचिन्तन-वशात् तत्तच्छरव्यं सुधीः । पाशध्यानवसात् समस्तजगतां मृत्योर्वशत्वं महा- दुर्गस्तम्भ-महाङ्कुशस्य मननान्माया-ममेयां तरेत् ॥ ५०॥

न्यासं कृत्वा गणेश-ग्रह-भगण-महायोगिनी-राशि-पीठैः षड्भिः श्रीमातृकार्णैः सहित-बहुकलै-रष्टवाग्देवताभिः । सश्रीकण्ठादियुग्मै-र्विमलनिजतनौ केशवाद्यैश्च तत्त्वैः षट्त्रिंशद्भिश्च तत्त्वैर्भगवति भवतीं य स्मरेत् स त्वमेव ॥ ५१॥

सुरपतिपुर-लक्ष्मी-जृम्भणातीतलक्ष्मीः प्रभवति निजगेहे यस्य दैवं त्वमार्ये । तव विविधकलानां पात्रभूतस्य तस्य त्रिभुवनविदिता सा जृम्भते कीर्तिर्रेच्छा ॥ ५२॥

मातस्त्वं भूर्भुवःस्व-र्महरसि नृतपः-सत्यलोकैश्च सूर्ये- न्द्वारज्ञाचार्य-शुक्रार्किभिरपि-निगमब्रह्मभिः प्रोतशक्तिः । प्राणायामादियत्नैः कलयसि सकलं मानसं ध्यानयोगं येषां तेषां सपर्या भवति सुरकृता ब्रह्म ते जानते च ॥ ५३॥

क्व मे बुधिर्वाचा परमविदुषो मन्दसरणिः क्व ते मात-ब्रह्मप्रमुख-विदुषा-माप्तवचसाम् । आभून्मे विस्फूर्तिः परतर महिम्नस्तव नुतिः प्रसिद्धं क्षन्तव्यं बहुलतर-चापल्यमिह मे ॥ ५४॥

प्रसीद परदेवते मम हृदि प्रभूतं भयं विधारय दरिद्रतां दलय देहि सर्वज्ञताम् । निधेहि करुणानिधे चरणपद्मयुग्मं स्वकं निवारय जरामृति त्रिपुरसुन्दरि श्रीशिवे ॥ ५५॥

इति त्रिपुरसुन्दरी-स्तुतिमिमां पठेद्यः सुधीः स सर्वदुरिताटवि-पटल-चण्ड-दावानलः । भवेन्मनसि वाञ्छित-प्रथित-सिद्धि-वृद्धिर्भवेत् अनेक-विध-सम्पदां पद-मनन्तुल्यो भवेत् ॥ ५६॥

पृथ्वीपाल प्रकटमुकुट स्रग्रजो राजिताङ्घ्रिः विद्युत्पुञ्जानतिनुतिसमाराधितो बाधितारिः । विद्याः सर्वाः कलयति हृद व्याकरोति प्रवाचा लोकाश्चार्यैर्नवनवपदैरिन्दु बिम्ब प्रकाशैः ॥ ५७॥

संगीतं गिरिजे कवित्वसरणिं-चाम्नाय-वाक्य-स्मृतेः व्याख्यानं हृदि तावकीन-चरणद्वन्दं च सर्वज्ञताम् । श्रद्धां कर्मणि कालिकेऽतिविपुल-श्रीजृम्भणं मन्दिरे सौन्दर्यं वपुषि प्रकाशमतुलं प्राप्नोति विद्वान् कवि ॥ ५८॥

भूष्यं वैदुष्यमुद्यद्दिनकर किरणाकरमाकारतेजः सुव्यक्तं भक्तिमार्गं निगमनिगदितं दुर्गमं योगमार्गम् । आयुष्यं ब्रह्मपोष्यं हरगिरिविशदां कीर्तिमभ्येत्य भूमौ देहान्ते ब्रह्मपारं परशिवचरणाकरमभ्येति विद्वान् ॥ ५९॥

दुर्वाससा महित दिव्य मुनीश्वरेण विद्याकला युवति मन्मथ-मूर्तिनैतत् । स्तोत्रं व्यधायि रुचिरं त्रिपुराम्बिकायाः वेदागमैक पटली विदितैकमूर्तेः ॥ ६०॥

सदसदनुग्रह-निग्रह-गृहित-मुनिविग्रहो भगवान् । सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ ६१॥

॥ इति श्रीदुर्वाससा मुनीन्द्रेण विरचितं श्रीशक्तिमहिम्न स्तोत्रं सम्पूर्णम् ॥

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः