Shiva Raksha Stotram

Shiva Raksha Stotram

चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥ १ ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥ २ ॥

गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३ ॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥ ४ ॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५ ॥

हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युंजयः पातु कटिं व्याघ्राजिनाम्बरः ॥ ६ ॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७ ॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥ ८ ॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥ ९ ॥

ग्रहभूतपिशाचाद्याः त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs
Om Sarve bhavantu Sukhinah

ॐ सर्वे भवन्तु सुखिनः