Shree Maha Ganesh Pancharatn Stotram

सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥
गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं, करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं, शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं, प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
चकासतं चतुर्भुजैः विकासपद्म पूजितं, प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥
नराधिपत्वदायकं स्वरादिलोकदायकं, ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः, हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥
श्रमापनोदनक्षमं समाहितान्तरात्मनां, सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसंभवं, शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५ ॥
गणाधिपस्य पंचकं नृणामभीष्टदायकं, प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्, चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥ ६ ॥