Shree Narsimha Stotram

Shree Narsimha Stotram

Change Bhasha

कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः ।

शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥

नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः ।

गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागं वन्दे भीमाट्टहासं त्रिभुवनजयः पातु मां नारसिंहः ॥ २ ॥

पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरुमध्याह्नसेतुं नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविद्वांसनेतः ।

आहुश्चक्रं तस्य बाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् । वक्त्रं वह्न्यस्य विद्यस्सुरगणविनुतः पातु मां नारसिंहः ॥ ३ ॥

घोरं भीमं महोग्रं स्फटिककुटिलता भीमपालं पलाक्षं चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् ।

द्वात्रिंशद्बाहुयुग्मं परिखगदात्रिशूलपाशपाण्यग्निधार वन्दे भीमाट्टहासं लखगुणविजयः पातु मां नारसिंहः ॥ ४ ॥

गोकण्ठं दारुणान्तं वनवरविदिपी डिंडिडिंडोटडिंभं डिंभं डिंभं डिडिंभं दहमपि दहमः झंप्रझंप्रेस्तु झंप्रैः ।

तुल्यस्तुल्यस्तुतुल्य त्रिघुम घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं इत्येवं नारसिंहं पूर्णचन्द्रं वहति कुकुभः पातु मां नारसिंहः ॥ ५ ॥

भूभृद्भूभुजङ्गं मकरकरकर प्रज्वलज्ज्वालमालं खर्जर्जं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् ।

भोभागं भोगभागं गग गग गहनं कद्रुम धृत्य कण्ठं स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६ ॥

झुंझुंझुंकारकारं जटमटिजननं जानुरूपं जकारं हंहंहं हंसरूपं हयशत ककुभं अट्टहासं विवेशम् ।

वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं लंलंलं लालिताक्षं लखगुणविजयः पातु मां नारसिंहः ॥ ७ ॥

यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुंचिताग्रोग्रतेजाः ।

भीताश्चा दानवेन्द्रास्सुरभयविनुतिश्शक्तिनिर्मुक्तहस्तं नाशास्यं किं कमेतं क्षपितजनकजः पातु मां नारसिंहः ॥ ८ ॥

श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् ।

होंहों होंकारकारं हुतवह नयनं प्रज्वलज्वाल पाक्षं क्षंक्षंक्षं बीजरूपं नरहरि विनुतः पातु मां नारसिंहः ॥ ९ ॥

अहो वीर्यमहो शौर्यं महाबलपराक्रमम् । नारसिंहं महादेवं अहोबलमहाबलम् ॥ १० ॥

ज्वालाहोबलमालोलः क्रोडाकारं च भार्गवम् । योगानन्दश्चत्रवट पावना नवमूर्तये ॥ ११ ॥

श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णादि वृश्चिक जलाग्निभुजङ्ग रोग-क्लेशव्ययाय हरये गुरवे नमस्ते ॥

Pass on the Karma!

Multiply the positivity, through the Sanatan

How are you feeling?

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs