Shri Kalika Ashtkam

Shri Kalika Ashtkam

ध्यानम् ।

गलद्रक्तमुण्डावलीकण्ठमाला

महोघोररावा सुदंष्ट्रा कराला ।

विवस्त्रा श्मशानालया मुक्तकेशी

महाकालकामाकुला कालिकेयम् ॥ १॥

भुजेवामयुग्मे शिरोऽसिं दधाना

वरं दक्षयुग्मेऽभयं वै तथैव ।

सुमध्याऽपि तुङ्गस्तना भारनम्रा

लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २॥

शवद्वन्द्वकर्णावतंसा सुकेशी

लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।

शवाकारमञ्चाधिरूढा शिवाभिश्-

चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३॥

॥ अथ स्तुतिः ॥

विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्

समाराध्य कालीं प्रधाना बभूबुः ।

अनादिं सुरादिं मखादिं भवादिं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १॥

जगन्मोहिनीयं तु वाग्वादिनीयं

सुहृत्पोषिणीशत्रुसंहारणीयम् ।

वचस्तम्भनीयं किमुच्चाटनीयं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २॥

इयं स्वर्गदात्री पुनः कल्पवल्ली

मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।

तथा ते कृतार्था भवन्तीति नित्यं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३॥

सुरापानमत्ता सुभक्तानुरक्ता

लसत्पूतचित्ते सदाविर्भवत्ते ।

जपध्यानपूजासुधाधौतपङ्का

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४॥

चिदानन्दकन्दं हसन् मन्दमन्दं

शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।

मुनीनां कवीनां हृदि द्योतयन्तं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५॥

महामेघकाली सुरक्तापि शुभ्रा

कदाचिद् विचित्राकृतिर्योगमाया ।

न बाला न वृद्धा न कामातुरापि

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६॥

क्षमस्वापराधं महागुप्तभावं

मया लोकमध्ये प्रकाशिकृतं यत् ।

तव ध्यानपूतेन चापल्यभावात्

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७॥

यदि ध्यानयुक्तं पठेद् यो मनुष्यस्-

तदा सर्वलोके विशालो भवेच्च ।

गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकम् सम्पूर्णम् ॥

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection
Sip in Style

Sip in Style

Explore Our Collection of Sanatan-Inspired Mugs
Om Sarve bhavantu Sukhinah

ॐ सर्वे भवन्तु सुखिनः