
Sri Venkatesa Dwadasa Nama Stotram
Change Bhasha
वेङ्कटेशो वासुदेवः वारिजासनवन्दितः ।
स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥
पीतांबरधरो देवः गरुडारूढशोभितः,
विश्वात्मा विश्वलोकेशः विजयो वेङ्कटेश्वरः ॥ २ ॥
एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तो विष्णोस्सायुज्यमाप्नुयात् ॥ ३ ॥