
Srimad Divya Parshuram Ashtakam Stotram
Change Bhasha
ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥
अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं, वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥
रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं, विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥
बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं, सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥
जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं, निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥
निर्जरं गरुडध्वजं धरणीश्वरं परमोददं, सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
भूमतापसवेषधारिणमद्रिशञ्च महामहं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥
Srimad Divya Parshuram Ashtakam Stotram सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं, सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥
दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-, वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
बाहुलेयकुगर्वहारकमाश्रितावळितारकं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥
पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः, पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥
॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥